|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.146. अध्यायः 146
Mahabharata - Udyoga Parva - Chapter Topics
सूर्येण कर्णंप्रति कुन्तीवचनस्वीकरणविधानम् ॥ 1 ॥ कर्णेन कुन्तींप्रति सोपालम्भं दुर्योधनपरित्यागस्य सयुक्तिकमनौचेत्यकथनपूर्वकं अर्जुनवर्जं पाण्डवासंहरणप्रतिज्ञानम् ॥ 2 ॥

Mahabharata - Udyoga Parva - Chapter Text
5-146-0(36783)
वैशम्पायन उवाच। 5-146-0x(3812)
ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम्।
दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् ॥ 5-146-1(36784)
सूर्य उवाच। 5-146-2x(3813)
सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु।
श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा ॥ 5-146-2(36785)
वैशम्पायन उवाच। 5-146-3x(3814)
एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना ।
चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा ॥ 5-146-3(36786)
कर्ण उवाच। 5-146-4x(3815)
न चैतच्छ्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया।
धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव ॥ 5-146-4(36787)
अकरोन्मयि यत्पापं भवती सुमहात्ययम् ।
अपाकीर्णोऽस्मि यन्मातस्तद्यशःकीर्तिनाशनम् ॥ 5-146-5(36788)
अहं चेत्क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् ।
त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् ॥ 5-146-6(36789)
क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम।
हीनसंस्क्रासमयमद्य मां समचूचुदः ॥ 5-146-7(36790)
न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया।
सा मां संबोधयस्यद्य केवलात्महितैषिणी ॥ 5-146-8(36791)
कृष्णेन सहितात्को वै न व्यथेत धनंजयात्।
कोद्य भीतं न मां विद्यात्पर्थानां समितिं गतम् ॥ 5-146-9(36792)
अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः ।
पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति ॥ 5-146-10(36793)
सर्वकामैः संविभक्तः पूजितश्च यथासुखम् ।
अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् ॥ 5-146-11(36794)
उपनह्य परैर्वैरं ये मां नित्यमुपासते ।
नमस्कुर्वन्ति च सदा वसवो वासवं यथा ॥ 5-146-12(36795)
मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम्।
मन्यन्ते ते कथं तेषामहं छिन्द्यां मनोरथम् ॥ 5-146-13(36796)
मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम्।
अपारे पारकामा ये त्यजेयं तानहं कथम् ॥ 5-146-14(36797)
अयं हि कालः संप्राप्तो धार्तराष्ट्रोपजीविनाम् ।
निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता ॥ 5-146-15(36798)
कृतार्थाः सुभृता ये हि कृत्यकाले ह्युपस्थिते।
अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः ॥ 5-146-16(36799)
राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम्।
नैवायं न परो लोको विद्यते पापकर्मणाम्। 5-146-17(36800)
धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः ।
बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे॥ 5-146-18(36801)
आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम्।
अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः ॥ 5-146-19(36802)
न च तेऽयं समारम्भो मयि मोघो भविष्यति।
वध्यान्विषह्यान्संग्रामे न हनिष्यामि ते सुतान् ॥ 5-146-20(36803)
युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते ।
अर्जुनेन समं युद्धमपि यौधिष्ठिरे बले ॥ 5-146-21(36804)
अर्जुनं हि निहत्याजौ संप्राप्तं स्यात्फलं मया।
यशसा चापि युज्येयं निहतः सव्यसाचिना ॥ 5-146-22(36805)
न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि ।
निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि ॥ 5-146-23(36806)
इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेषती ।
उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पनम् ॥ 5-146-24(36807)
एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः ।
यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् ॥ 5-146-25(36808)
त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन ।
दत्तं तत्प्रतिजानीहि सङ्गरप्रतिमोचनम् ॥ 5-146-26(36809)
अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् ।
तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् ॥ ॥ 5-146-27(36810)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-146-4 न श्रद्दधे कर्तव्यत्वेन न मन्ये। धर्मद्वारं विपरीतलक्षणया धर्मापगमद्वारम्। तव नियोगकरणं त्वदाज्ञप्तार्थानुष्ठानम् ॥ 5-146-5 सुमहात्ययं सुमहान् अत्ययो जातिभ्रंशाख्यो विनाशो यस्मात्। अपाकीर्णस्त्यक्तः ॥ 5-146-6 त्वत्कृते त्वत्सुखार्थं कानीनो गर्भः प्रकटो माभूदिति हेतोरहं क्षत्रसत्क्रियां चेन्न प्राप्तस्तर्हि त्वदन्यः कः शत्रुः किं ममाहितं पापीय इति इतोपि पापतरं कुर्यान्न कोऽपीत्यर्थः ॥ 5-146-7 क्रियाकाले क्षत्रियोचितसंस्कारकाले। अनुक्रोशं दयाम्। समचूचुदः स्वकार्यार्थं प्रेरितवत्यनि ॥ 5-146-12 उपनह्य बध्वा ॥ 5-146-13 प्रतिसमासितुं जेतुम् ॥ 5-146-15 निर्वेष्टव्यं आनृण्यं कर्तव्यम् ॥ 5-146-20 विषह्यान् हन्तुं शक्यानपीत्यर्थः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|